🌺🌺🌺🌺🌺🌺🌻कामाख्या ध्यानम् 🌻
रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥
🌺अरुणकमलसम्स्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा । शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥
🌺विपुलविभवदात्री स्मेरवक्त्रा सुकेशी दलितकरकदन्ता सामिचन्द्रावतंसा । मनसिज-दृशदिस्था योनिमुद्रालसन्ती पवनगगनसक्ता संश्रुतस्थानभागा । चिन्ता चैवं दीप्यदग्निप्रकाशा धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ ३॥
🌺कामाख्या स्तोत्रम् जय कामेशि चामुण्डे जय भूतापहारिणि । जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ १॥
🌺विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने । भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ २॥
🌺मालाजये जये जम्भे भूताक्षि क्षुभितेऽक्षये । महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ ३॥
🌺भीमाक्षि भीषणे देवि सर्वभूतभयङ्करि । करालि विकरालि च कामेश्वरि नमोऽस्तु ते ॥ ४॥
🌺कालि करालविक्रान्ते कामेश्वरि हरप्रिये । सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ ५॥
🌺कामरूपप्रदीपे च नीलकूटनिवासिनि । निशुम्भ-शुम्भमथनि कामेश्वरि नमोऽस्तु ते ॥ ६॥
🌺कामाख्ये कामरूपस्थे कामेश्वरि हरिप्रिये । कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ ७॥
🌺वपानाढ्यमहावकत्रे तथा त्रिभुवनेश्वरि । महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ ८॥
🌺छागतुष्टे महाभीमे कामाख्ये सुरवन्दिते । जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ ९॥
🌺भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः । अष्टम्याञ्च चतुर्दश्यामुपवासी नरोत्तमः ॥ १०॥
🌺संवत्सरेण लभते राज्यं निष्कण्टकं पुनः । य इदंश्रृणुयाद् भक्त्या तव देवि समुद्भवम् ॥ ११॥
🌺सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति । श्रीकामरूपेश्वरि भास्करप्रभे प्रकाशिताम्भोजनिभायतानने । सुरारि-रक्षःस्तुतिपातनोत्सुके त्रयीमये देवनुते नमामि ॥ १२॥
🌺सितासिते रक्तपिशाङ्गविग्रहे रूपाणि यस्याः प्रतिभान्ति तानि । विकाररूपा च विकल्पितानि शुभाशुभानामपि तां नमामि ॥ १३॥
🌺कामरूपसमुद्भूते कामपीठावतंसके । विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ १४॥
🌺अव्यक्तविग्रहे शान्ते सन्तते कामरूपिणि । कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते ॥ १५॥
🌺या सुषुम्नान्तरालस्था चिन्त्यते ज्योतिरूपिणि । प्रणतोऽस्मि परां धीरां कामेश्वरि नमोऽस्तु ते ॥ १६॥
🌺दंष्ट्राकरालवदने मुण्डमालोपशोभिते । सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ १७॥
🌺चामुण्डे च महाकालि कालि कपोलहारिणि । पाशहस्ते दण्डहस्ते कामेश्वरि नमोऽस्तु ते ॥ १८॥
🌺चामुण्डे कुलमालास्ये तीक्ष्णदंष्ट्रामहावले । शवयानास्थिते देवि कामेश्वरि नमोऽस्तु ते ॥ १९॥
🌺🌺🌺🌺🌺🌺🌺🌺🌺
🔯🔯🔯पंडित विश्वनाथ त्रिपाठी उपाध्यक्ष 🔯🔯
🔱वशिष्ठ ज्योतिष एवं वैदिक अनुष्ठान संस्थान 🔱
🔱 🔱 🔱जयपुर एवं हैदराबाद 🔱🔱🔱🔱
मोबाइल नंबर 9348871117 ह्वाट्सएप नंबर 7877457465
किसी भी सहायता के लिए संपर्क करे निःशुल्क
🔱**श्वेतार्क गणपति 🔱सतनजा गणेश लक्ष्मी *🔱हरदोई गणपति 🔱वैजन्ती माला 🔱*दछिणावर्ती शंख*🔱*नर नारी**नेपाली रुद्राछ14 मुखी तक. 🔱**स्फटिक माला **🔱*रुद्राछ माला *🔱**विष्णु गोमती चक्र*🔱*शुलेमानी हकीक🔱 *नवरत्न सभी सर्टिफाइड***🔱,हत्था जोडी*🔱**लक्ष्मी कारक कौडी🔱,*🔯हकीकपत्थर *🔱🔯*बिल्ली की जेर🔱 🔯🔱***हकीक माला***🔱 पारद माला ***🔱*बिवाह बाधा निारण यन्त्र,*🔱** असली पारद शिवलिंग 🔱***पारद श्री यंत्र *🔱*पारद अगुठी🔱 *🔱***पैन्डल🔱 ,पारद की मूर्तिया**🔱* श्याही का कांटा ,**🔱**ऊल्लू के बीज**🔱**{🔱१मुखी से २१ मुखी तक रुद्राछ{इनडोनेशिया 🔱}इन्द्र जाल🔱 एवं तन्त्र सामान सभी उपलब्ध हैं संपर्क करें 🔱🔱🔱