🔯एकादशमुखहनुमत्कवचम्🔯
🌻श्रीगणेशाय नमः ।
🌻लोपामुद्रा उवाच ।
🌻कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् । यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ १॥
🌻दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे । कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥ २॥
🌻इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् । वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥ ३॥
🌻अगस्त्य उवाच ।
🌻नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् । ब्रह्मप्रोक्तं तु कवचं शृणु सुन्दरि सादरम् ॥ ४॥
🌻सनन्दनाय सुमहच्चतुराननभाषितम् । कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥ ५॥
🌻सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे । ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥ ६॥
🌻हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः । प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥ ७॥
🌻छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा । मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥ ८॥
🌻सर्वकामार्थसिद्ध्यर्थं जप एवमुदीरयेत् । ॐ स्फ्रें-बीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥ ९॥
🌻क्रौं-बीजात्मा नयनयोः पातु मां वानरेश्वरः । क्षं-बीजरूपः कर्णौ मे सीताशोकविनाशनः ॥ १०॥
🌻ग्लौं-बीजवाच्यो नासां मे लक्ष्मणप्राणदायकः । वं-बीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥ ११॥
🌻ऐं-बीजवाच्यो हृदयं पातु मे कपिनायकः । वं-बीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥ १२॥
🌻ह्रां-बीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् । ह्रसौं-बीजमयो मध्यं पातु लङ्काविदाहकः ॥ १३॥
🌻ह्रीं-बीजधरः पातु गुह्यं देवेन्द्रवन्दितः । रं-बीजात्मा सदा पातु चोरू वार्धिलङ्घनः ॥ १४॥
🌻सुग्रीवसचिवः पातु जानुनी मे मनोजवः । पादौ पादतले पातु द्रोणाचलधरो हरिः ॥ १५॥
🌻आपादमस्तकं पातु रामदूतो महाबलः । पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥ १६॥
🌻दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः । वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥ १७॥
🌻वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा । क्रोडास्यः पातु मां नित्यमैशान्यां रुद्ररूपधृक् ॥ १८॥
🌻ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा । रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥ १९॥
🌻इत्येवं रामदूतस्य कवचं यः पठेत्सदा । एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥ २०॥
🌻रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् । पुत्रदं धनदं चोग्रशत्रुसङ्घविमर्दनम् ॥ २१॥
🌻स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् । एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥ २२॥
🌻चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः । एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥ २३॥
🌻द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् । क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥ २४॥
🌻वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः । यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥ २५॥
🌻ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ॥ २६॥
🌻इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य । संहृष्टचित्तापि तदा तदीयपादौ ननामातिमुदा स्वभर्तुः ॥ २७॥
🌻इत्यगस्त्यसारसंहितायामेकादशमुखहनुमत्कवचं सम्पूर्णम् ॥
🌻🌻🌻🌺🌻🌻🌻